मूलम्
स्यादेकाङ्गानुवादेन ह्यङ्गयोश्चोद्योमानयोः।अन्तराले विधानं यत् स संदंश इतीर्यते॥
मूलम्
धर्मविप्रतिषेधस्तु यदि स्यादङ्गमुख्ययोः।प्रधानानुग्राहो न्याय्यः सोमस्स्यात्तेन पर्वणि॥
मूलम्
परस्परापेक्षतायामुपक्रमनयान्वयः।परस्परानपेक्षत्वे त्वपच्छेदनयान्वयः॥
मूलम्
भूयोऽनुग्रहनीतिस्तु संख्यावैषम्यगोचरा।विरोधाधिकृतिन्यायः प्राबल्यात्परबाधकः॥