मूलम्
अथ प्रमाणयोर्बाध्यबाधकत्वव्यवस्थितिः।अनन्यथासिद्धतैव बाधकत्वे प्रयोजिका॥
मूलम्
अन्यथासिद्धतैव या तु सा बाध्यत्वप्रयोजिका।उभयं सावकाशत्वानवकाशक्वमूलकम्॥
मूलम्
अन्थासिद्धता नाम माने विषयसत्यताम्।अन्तरेणात्मलाभस्स्यादवकाशो द्विधा मतः॥
मूलम्
आद्यो द्विचन्द्रादिवत्स्यात् अप्रमामपदार्हता।विषयान्तरलाभोऽन्त्यः भवेत् होमविधाविव॥
मूलम्
प्राप्तबाधोऽप्राप्तबाध इति स द्विविधो मतः।आद्यः प्रमेयापाहरः यो दाशमिक इष्यते॥
मूलम्
अन्त्यो मूलोच्छेदरूपः तार्तीयीकस्य इष्यते।साधारमस्य शास्त्रस्य विशेषविषयादिना॥
मूलम्
संकोचः क्लृप्तरूपस्य प्राप्तबाधोऽयमुच्यते।कल्प्यस्य कक्लृप्तशास्त्रेण शैघ्रूयान्मूलनिकृन्तने॥
मूलम्
फलापहारादप्राप्तबाध एषोऽभिधीयते।अथ तस्य प्रपञ्चोऽयं विदितो लोकवेदयोः॥
मूलम्
बाध्यतेऽनन्यथासिद्धेनान्यथासिद्धतास्पदम्।तथा निरवकाशेन सावकाशं विशेषतः॥
मूलम्
नैमित्तिकेन नित्यं च ऋत्वर्थं पुरषार्थतः।पूर्वं परेणातिदिष्टमुपदिष्टेन बाध्यते॥
मूलम्
सफलं निष्फलेनापि ह्यदृष्टं चापि दृष्टतः।बाध्यते चाप्युपादेयमनुपादेयतावता॥
मूलम्
श्रौतेन बाध्यते स्मार्तं प्रबलेनापि दुर्बलम्।प्रधानेनाङ्गभूतं च लाघवेनापि गौरवम्॥
मूलम्
अपेक्षितविधानेन विधानमनपेक्षितम्।भूयसा चाल्पबाधस्यात् रूढ्य्या योगः प्रबाध्यते॥
मूलम्
एवमाद्यवगन्तव्यं नास्त्यन्तो विस्तरस्य हि।सिद्धानुगममात्रं तु कर्तुं युक्तं परीक्षकैः॥
मूलम्
एवं दोषनिरुक्तीनां सरणिः स्य़ात्प्रदर्शिता।अथ न्यायनिरुक्तीनां सरणीश्च प्रदर्श्यते॥