696 विकल्पः

मूलम्

विरोधे तुल्यबलयोर्विकल्पः परिग्रह्यते।गत्यान्तरे च न सति सैषा ह्यगातिका गतिः॥

मूलम्

प्रामाण्यस्य परित्यागः त्वप्रामाण्यस्य कल्पना।त्यक्तमानत्वोपगमोऽत्यक्तप्रामाण्यवर्जनम्॥

मूलम्

प्रत्येकमेते दोषास्स्युः चत्वारश्शास्त्रयोर्द्यवयोः।प्रयोगभेदात्तेन स्याद्विकल्पो ह्यष्टदोषभाक्॥

मूलम्

प्रतिपत्तिरनुष्ठानं अपूर्वं च फलं तथा।बाधस्तेषां कोटियुग्मे इति वा दोषचिन्तना॥