मूलम्
प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः।अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः॥
मूलम्
श्रौतव्यापारनानात्वे शब्दानामतिगौरवम्।एकोक्त्यवसितानां तु नार्थाक्षेपो विरुध्यते॥
मूलम्
वाक्यार्थविधिरन्याय्यः श्रुत्यर्थविधिसंभवे।पदान्तरार्थो वाक्यार्थः समानार्थोऽपरो मतः॥
मूलम्
विधिर्लघ्वर्थविषयः शान्ताकांक्षो भवेद्यदि।भारो लाघवतर्काख्यमीमांसाया न युज्यते॥
मूलम्
करोत्यपरपर्यायभावना त्वेककर्मिका।अतस्त्वनेकोद्देश्यत्वे वाक्यभेदः प्रवर्तते॥
मूलम्
विधेयतोद्देश्यता चाप्येका कृतिनिरूपिता।अतो विधेयभेदेऽपि तद्भेदो दुर्निवारणः॥
मूलम्
वाक्यभेदो वाक्यदोषः पददोषस्तु लक्षणा।पदवाक्यसमावेशे गुणे त्वन्याय्यकल्पना॥
मूलम्
विधेयमात्रं वोद्देश्यमात्रं स्वरसवाहतः।समर्पयेदेकपदं स चैकप्रसरो मतः॥
मूलम्
तद्भङ्गलक्षणः कश्चिद्वाक्यबेदः प्रकीर्त्यते।अंशभेदे वाक्यभेदः कश्चिद्गौरवलक्षणः॥
मूलम्
त्रिकद्वयसमावेशात्कश्चिद्वैरूप्यलक्षणः।उद्देश्यत्वानुवाद्यत्वप्रधानत्वत्रिकं क्वचित्॥
मूलम्
उपादावविधेयत्वगुणत्वत्रितयं क्वचित्।मानान्तरेण सिद्धस्य या स्यान्निर्दिश्यमानता॥
मूलम्
विधेयस्यान्वयित्वेन तदुद्देश्यत्वमुच्यते।मानान्तरेण सिद्धस्य पुनश्च श्रूयमाणता॥
मूलम्
भवेत्तदनुवाद्यत्वं प्रधानत्वं गुणान्वयः।पुंसाऽनुष्ठयिमानत्वमुपादेयत्वमिष्यते॥
मूलम्
अप्राप्तत्वयुता वाक्यवेद्यता स्याद्विधेयता।गुणत्वं विहितत्वं स्यादङ्गत्वेन च कर्मणः॥
मूलम्
यद्वृत्तयोगः प्राथम्यं द्वयमुद्देश्यलक्षणम्।तद्वृत्तमेवकारश्च स्यादुपादेयलक्षणम्॥
मूलम्
येषामाख्यातशब्दानां यदप्याद्युपबन्धनात्।विधिशक्तिः प्रणश्येत्तु ते सर्वत्राभिधायकाः॥