मूलम्
क्रत्वनुष्ठाप्यता यत्र क्रत्वर्थत्वं तदुच्यते।फलानुष्ठाप्यता यत्र सोच्यते पुरुषार्थता॥
मूलम्
फलस्य पुरुषार्थत्वव्यवहारस्तु भक्तितः।विधानमप्रवृत्तस्य प्रवर्तनमितीरितम्॥
मूलम्
उपादानमनुष्ठानमनुष्ठितगोचरम्।अनुष्ठानोद्देश्यतया विहितं स्यात्प्रयोदकम्॥
मूलम्
विधियत्वेन विहितं प्रयोज्यमिति निर्णयः।प्रधानमिह विध्यादिरङ्गं विध्यन्त उच्यते॥
मूलम्
दक्षिणा नाम तद्द्रव्यं यत्स्यादानतिसाधनम्।सा चैकस्मिन् क्रतावेका वशीकरणमानतिः॥
मूलम्
सामान्यतो निरुक्तीनां संग्रहोऽयं विबुध्यताम्।आनन्त्यानवकाशाभ्यां संक्षेपरुचयो बुधाः॥