मूलम्
देवतोद्देशतो द्रव्यत्यागो यागो निरुच्यते।दानं स्वस्वत्वमुन्मृद्य परस्वत्वप्रकल्पनम्॥
मूलम्
प्रक्षेपसहितो यागो होम इत्यभिधीयते।यथेष्टविनियोगस्य योगत्वं स्वत्वमुच्ते॥
मूलम्
देवतात्वं त्यज्यमानद्रव्योद्देश्यत्वमिष्य़ते।अथवा विधिवाक्यस्थशब्दत्वसमवृत्तिमान्॥
मूलम्
अखम्डपाधिरथवा तच्छब्दप्रतिपाद्यता। प्रतिग्रहीतृत्वयोगे सैव स्यात्सम्प्रदानता॥
मूलम्
अव्यक्तिरूपत्तिवाक्ये देवतानभिबोधनम्।तथाऽवदीयमानत्वं हविष्ट्वमिति भाष्यते॥