मूलम्
अङ्गत्वं तु परोद्देश्यकृतिकारकरूपतः।विहितत्वं तदन्तःस्थोद्देश्यताकारकत्वयोः॥
मूलम्
एकस्योपस्थापको यस्स् शब्दश्श्रुतिरीर्यते।सा द्वितीयादिरूपेति नव्यतर्कपरिष्कृतिः॥
मूलम्
विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति।तत्रचान्यत्रच प्राप्तौ परिसंख्येति गीयते॥
मूलम्
विधिरुक्तोऽथ नियमः पक्षेऽप्राप्तांशपूरकः।अन्यव्यावृत्तिफलकः परिसंख्येति कीर्त्यते॥
मूलम्
प्राप्ताप्राप्तविवेकेन परिसंख्या द्विधेष्यते।प़ञ्चपञ्चनखेत्याद्येमामगृभ्णान्नितीतरा॥
मूलम्
श्रुत्यर्थस्य परित्यागादश्रुत्यर्थस्य कल्पनात्।प्रप्तस्य बाधादित्याद्या परिसंखया त्रिदूषणा॥
मूलम्
अन्त्यामश्वरशनाऽङ्गत्वं स्वार्थो विधीयते।नेयं त्रिदोषेति केचिदेषाऽपीतीतरे विदुः॥