691 वेदत्वादिः

मूलम्

मन्त्रब्रह्मणपर्याप्ताखण्डोपाधिर्हि वेदता।मन्त्रत्वं ब्राह्मणत्वं चाखण्डोपाधिरितीष्यते॥

मूलम्

ऋक्त्वं पादव्यवस्थावन्मन्त्रत्वमिति निर्णयः।मन्त्रत्वैकाधिकरणगीतित्वं सामता मता॥

मूलम्

पुरानुवाक्या पूर्वाध देवतायाः प्रकाशकः।मन्त्रो याज्या तूत्तरार्धे देवतायाः प्रकाशकः॥

मूलम्

प्रगीतमन्त्रसाध्येन्द्रदेवतादिगुणाभिधा।स्योत्रं शास्त्रं त्वप्रगीतमन्त्रसाध्यतथाऽभिधा॥

मूलम्

स्तोत्रस्य साधनीभूताः ऋचस्स्तोत्रीयसंज्ञिताः।स्तोमाः त्रिवृत्त्वासंख्याविशेषाः ज्योतिराह्वयाः॥