690 एकवाक्यत्वम्

मूलम्

यद्विभागे च साकाङ्क्षमेकार्थमविभागतः।तदेकवाक्यं द्विविधं पदवाक्यविभेदतः॥

मूलम्

स्वजन्योपस्थितौ स्वार्थे विषये पदपूर्वकम्।स्वजन्यबोधे विषये स्वार्थे स्याद्वाक्यपूर्वकम्॥

मूलम्

एकानेकार्थभेदेन स भेदः परिभाष्यते।सार्थवादोत्पत्तिविधिप्रयोगविधिभेदतः॥

मूलम्

इत्थं पञ्चविधे वेदे प्रधानार्थानुबन्धिनाम्।निरुक्तिसंग्रहो ज्ञेयः सामान्यांशोऽथ लिख्यते॥