मूलम्
स्तुतिर्निन्दाऽन्यतरतत्परं वाक्यमिहेष्यते।अर्थवाद इति प्राज्ञैः तत्प्रभेदश्चतुर्विधः॥
मूलम्
स्तुतिर्निन्दा परापृतिः पराकल्प इति क्रमात्।अथ केचिद्विवक्षातश्चान्यथा प्रविविञ्चते॥
मूलम्
विरोधे गुणवादस्स्यादनुवोदोऽवधारिते।भूतार्थवादस्तद्धनादर्थवादस्त्रिधेत्यपि॥
मूलम्
अग्निर्हिमस्येतिवाक्यं मन्त्रत्वेन समर्थितम्।अर्थवादेऽनुवादस्य नोदाहरणमर्हति॥
मूलम्
प्राशस्त्यादिमतिस्त्वर्थवादादेव नियम्यते।प्राशस्त्यादिस्ततो धर्मः नियमादृष्टसाधनम्॥
मूलम्
सोऽर्थवादो धर्मशाब्दबोधे विध्येकवाक्यतः।धर्मे प्रमाणमथवा निरुक्तज्ञानकारणम्॥