688 निषेधः

मूलम्

निषेधस्तु भवेद्वाक्यं यत्पुरुषनिवर्तकम्।प्रवर्तनारोधिनि तु नञर्थस्स्यान्निवर्तना॥

मूलम्

तदन्यमात्रसंकोचपरता पर्युदासता।तन्मात्रसंकोचपर उपसंहार इष्यते॥

मूलम्

उभयत्र हि सामान्यं विशेषे पर्यवस्यति।व्यापारस्तूपस्हारः विधिप्रत्ययसंश्रितः॥

मूलम्

धातुनामान्यतरयुग्व्यापारस्त्वपरो मतः।उपाध्यसंकरन्यायात्समावेशः द्वयोः क्वचित्॥