मूलम्
नामधेयो विधेयार्थपरिच्छेदक इष्यते।मत्त्वर्थलक्षणापत्तिः वाक्यभेदभयं तथा॥
मूलम्
तत्प्रख्याशास्त्रं तेनैव व्यपदेश इति क्रमात्।चतुर्विधं निमित्तं स्यादेके पञ्चविधं विदुः॥
मूलम्
पञ्चमं तूत्पत्तिशिष्टगुणप्राबल्यमुच्यते।उद्भिच्चित्राऽग्निहोत्रं च श्येनश्चेति चतुर्विधा॥
मूलम्
क्रमेणोदाहृतिरियं वैश्वदेवं तु पञ्चमम्।तत्प्रख्यशास्त्रान्नामत्वं पञ्चमस्येतरे विदुः॥
मूलम्
यागेनानेन यक्ष्येऽहं तेन याजाय मामिति।नाम्ना विनैवमादिर्हि व्यावहारो न सिद्ध्यति॥
मूलम्
मीमांसाविधिवाक्यार्थज्ञानानुष्ठानलक्षणे।त्रिविधे व्यवहारेऽस्मिन् सर्वस्मिन्नाम कारणम्॥