686 मन्त्रः

मूलम्

प्रयोगसमवेदार्थस्मृतिर्भवति मन्त्रतः।तस्मात् स्मृतेर्हि नियमः नादृष्टफलकल्पना॥

मूलम्

तच्छाब्दबोधहेतुत्वे तत्प्रामाण्ये विवक्षिते।विनियोजकवाक्येषु मन्त्राणां वेदवर्तिनाम्॥

मूलम्

पदार्थविधया शाब्दबोधस्य करणत्वतः।धर्मे प्रमाणं मन्त्रास्स्युः इति केचित्प्रचक्षते॥

मूलम्

धर्मामुष्ठानोपयोगिज्ञानहेतुत्वमेव चेत्।धर्मे मतं प्रमाणत्वं मन्त्राणामिदमक्षतम्॥