मूलम्
प्रयोगे श्रुत्यर्थपाठस्थानमुख्यप्रवृत्तयः।षडेतानि प्रमाणानि पौर्वापर्यात्मनि क्रमे॥
मूलम्
श्रुतिः क्त्वाथादिशब्दस्स्यादर्थस्तु स्यात्प्रयोजनम्।पाठो मन्त्रब्राह्मणयोः स्थानं तादृगुपस्थितिः॥
मूलम्
प्रधानक्रमतोऽङ्गानां क्रमो मुख्यक्रमो मतः।सैषा प्रवृत्तिः प्रथमक्रमतोऽनन्तरक्रमः॥