683 प्रकृतिः

मूलम्

समग्राङ्गोपदेशोऽस्ति यत्र या प्रकृतिर्मा।चोदकाद्यत्र न प्रप्तिरङ्गानां साऽथवा मता॥

मूलम्

वैकृतस्य विधेः काचिदाकांक्षा चोदको मतः।चोदकादङ्गसंबन्धः प्रकृतौ नास्ति कश्चन॥

मूलम्

तत्प्रतिर्द्वन्द्धिभूता या विकृतिसा निरुच्यताम्।उपदेशो वाक्यमित्थं कुर्यादित्येवमादिकम्॥

मूलम्

अतिदेशास्त्विदं तद्वत्कुर्यादित्येवमादिकम्।प्राकृतात्कर्मणो यत्र यत्सामानेषु कर्मसु॥

मूलम्

धर्मप्रदेशो येन स्यात्सोऽत्गेशे इति स्थितिः।निष्कर्षस्तु प्रकृत्यङ्गजातीयपदार्थगा॥

मूलम्

या विकृत्यङ्गतया तस्याः ग्रहकं वाक्यमिष्यते।अन्तर्नीतोपकारस्य पदार्थस्यैव सा मता॥

मूलम्

उत्कर्षोऽप्राकरणिकनिवेशोऽत्रावगम्यते।अपकर्षोऽप्रकृततः प्रकृतेः संगमो मतः॥