मूलम्
साध्यं च सादनं चेतिकर्तव्यत्वमिति क्रमात्।किं केन कथमित्येवमाकांक्षात्रयपूरकम्॥
मूलम्
शाब्दी प्रवृत्तिलिङ्गस्तोत्रैस्त्रय्यशा भवति भावना।आर्थी तु स्वर्गयागाङ्गैः त्रय्यंशेति परिनिष्ठितम्॥
मूलम्
अङ्गताग्रहकं मानं षड्विधं श्रुतिरादितम्।लिङ्गं वाक्यं प्रकरणं स्थानं सह समाख्यया॥
मूलम्
निरपेक्षः कण्डरवः श्रुतिः लिङ्गं समर्थता।समबिव्याहृतिर्वाक्यं पदयोश्शेषिशेषयोः॥
मूलम्
प्रक्रिया ह्युभयाकांक्षा स्थानं सादेश्यमिष्यते।समाख्या यौगिकश्शब्दः तेषां भेदान् प्रचक्ष्महे॥
मूलम्
विभक्तय्येकाभिधानैकपदभेदास्त्रिधा श्रुतिः।शब्दार्थसामर्थेयभेदल्लिङ्गं द्विविधमुच्यते॥
मूलम्
इतिकर्तव्यताकाङ्क्षा द्वेधा प्रकरणं हि तत्।करणानुग्राहकं तदितिकर्तव्यतोच्यते॥
मूलम्
महाप्रकरणं तत्र फलभावनया युतम्।अवान्तरप्रकरणमङ्गतयाभावनया युतम्॥
मूलम्
श्रुत्यादिसमवाये तु पारदौर्बल्यमिष्यते।बोधे विलम्बाविलम्बौ बलाबलनियामकौ॥