681 भावना

मूलम्

प्रवर्तको नैव लिङ्गस्यात् तद्व्यापारो।पि नेष्यते।तदर्थभेदो नाज्ञादिः न कार्यं नेष्टहेतुता॥

मूलम्

अभिधानभावनैवेष्टा लिङ्गाद्यभिहिता तु या।सैवा प्रवर्तनाभिख्या प्रेरणेति च गीयते॥

मूलम्

अर्थात्मा भावना त्वन्या सर्वाख्यातेषु दृश्यते।कृतिः प्रयत्नो व्यापार इत्यादिव्यपदेशात्भाक्यय॥

मूलम्

णिजर्थात्तु लिङ्गार्थोऽसौ विलक्षणतया मतः।ज्ञापकाव्यापार एषः स तु कारकसंश्रितः॥

टीका

वि. वि.[450]

मूलम्

प्रवर्तनस्मृतिः प्राप्ते प्रैष इत्यभिधीयते।अप्राप्ते प्रेषणं सर्वं विधित्वं प्रतिपद्यते॥

मूलम्

विधिः प्रवर्तकत्वाख्यस्वरूपानुपपत्तितः।स्वर्गं साध्यतया यागं साधनत्वेन बोधयेत्॥

मूलम्

भवितुर्भवनस्यानुकूलो भावयितुर्भवेत्।व्यापारो भावना सैषा शाब्दा चार्थीति भिद्यते॥

मूलम्

आद्या प्रवर्तनाभिख्या लिङ्गाद्यभिहितोदिता।नञस्संव्यावहारे तु बोध्यते सा निवर्तना॥

मूलम्

पुंप्रवृत्त्यनुकूलात्मा व्यापारः शब्दगोऽग्रिमः।पुंनिवृत्त्यनुकूलात्मा व्यापारोऽनन्तरो मतः॥

मूलम्

प्रवृत्तिस्तु भवेदार्थी भावनाऽऽख्यातबोधिता।तदभावो निवृत्तिस्तु नञा योगे तु बुद्ध्यते॥

मूलम्

प्रयोजनेच्छाजनितः पुंव्यापारोऽत्र चादिमः।अनिष्टद्वेषजनितः तदभावोऽन्तिमो मतः॥