मूलम्
कर्म द्विधा ह्यर्थकर्म गुमकर्मेति भेदतः।अर्थकर्म भवेदात्मगतापूर्वस्य कारणम्॥
मूलम्
परं संस्कारजनकं तच्च द्विविधमिष्यते।यथोपयुक्तोपयोक्ष्यमाणसंस्कारभेदतः॥
मूलम्
उपयुक्ताकीर्णकरद्रव्यस्य विहिते स्थले।प्रक्षेपः प्रतिपत्तिस्सा ह्युपयुक्तस्य संस्क्रिया॥
मूलम्
उत्पत्तिराप्तिर्विकृतिस्संस्कृतिश्च परं भवेत्।आधानाधीत्यवाघातपोक्षणानीत्युदाहृतिः॥
मूलम्
यत्स्यात्पशुपुरोडाशप्रभृतिष्वंशभेदतः।दृष्टार्थं चाप्यदृष्टार्थमाश्रयीत्युच्यते हि तत्॥
मूलम्
नित्यकाम्यविभेदेन तथा कर्म विभाज्यते।सर्वस्यैव च काम्यत्वे कामना न भवेद्यादि॥
मूलम्
सर्वोऽपि वैदिकः पन्थाः भवेद्वत्तजलाञ्जलिः।सर्वस्यापि च नित्यत्वे त्वशक्त्या स्यादवत्सलः॥
मूलम्
तत्र नित्यं तु शक्याङ्ग काम्यमुक्ताङ्गकं मतम्।नित्यकाम्यस्वरूपैक्ये विनियोगपृथक्त्वतः॥
टीका
सुधीविलोचनम्.[11ख.]
मूलम्
फलार्थं क्रियमाणेऽपि नित्यं भवति तन्त्रतः।नित्येन काम्यसिद्धिं तु कल्पकाराः प्रचक्षते॥
मूलम्
पापक्षयफलं नित्यं काम्यं चापि क्वचिद्यदा।आराब्धे कामनाहानावुक्ताङ्गाशक्तिसंभवे॥
मूलम्
प्रत्यवायपरिहारफलं तन्नित्यमित्यपि।अपरे प्राहुरनयोर्विशेषस्सूक्षम इष्यते॥
मूलम्
नित्यं सामान्यफलतः काम्यं फलविशेषतः।प्रयोजनमुद्दिश्य न मन्दोऽपि प्रवर्तते॥
मूलम्
नैमित्तिकं कर्मभेदं प्रायश्चित्तादिलक्षणम्।प्राहुः परे तत्तु कर्म काम्यमेवेति केचन॥