679 अङ्गत्वम्

मूलम्

परदेशप्रवृत्तस्य नरस्य कृतिकारकम्।अङ्गं स्याद्द्रव्यजात्यादिस्सिद्धोऽप्यङ्गं ततो भवेत्॥

मूलम्

इति कर्तव्यता तु तादृक्पुंकृतिसाध्यता।सा द्विधा संनिपत्यारादुपकारकभेदतः॥

मूलम्

विदियमानव्रीह्यादिद्रव्याद्युद्दिश्य या क्रिया।तत्संनिपत्योपकारकाङ्गं सर्वार्थमेव तत्॥

मूलम्

अथवाऽङ्गिस्वरूपस्य निष्पादकमितीर्यते।द्रव्याद्यनुद्दिश्य यत्स्यात्तदारादुपकारकम्॥

मूलम्

अदृष्टार्थं फलापूर्वोत्पत्तावेवोपयुज्यते।अथवोत्पत्त्यपूर्वीयशक्तिसंपादकं हि तत्॥