मूलम्
उत्पत्तेर्विनियोगस्य तत्प्रयोगाधिकारयोः ॥
मूलम्
कर्मस्वरूपमात्रस्य बोधको विधिरादिमः । कर्मस्वरूपनिष्ठा या त्वज्ञातज्ञाप्यतात्मिका ॥
मूलम्
विधेयता स्यात्तच्छालिबोधस्य जनको ह्यसौ । अङ्गप्राधानसंबन्धबोधकस्स्यादनन्तरः ॥
मूलम्
प्रयोगप्राशुभावस्य तृतीयो बोधको मतः।कर्मजन्यफलस्वाम्यबोधकोऽधिकृतेर्विधिः॥
मूलम्
एवंविधविभागस्य निदानमवधार्यताम्।उत्पत्तिविधिराद्यो यः स द्वितीये विचार्यते॥
मूलम्
विनियोगविधिस्त्वन्यः यस्तृतीये विचार्यते।चतुर्थे पञ्चमे चैव प्रयोगविधिचिन्तनम्॥
मूलम्
अधिकारविधिस्त्वन्यः यष्षष्ठाध्यायगोचरः।एवं प्रमेयवैविध्याच्चातुर्विध्यं प्रकल्पितम्॥
मूलम्
चतुष्टयेऽपि चैकस्मिन् क्वचित्किंचिद्विवक्षितम्।एवं द्वयं त्रयं वापि क्वचिच्चापि चतुष्टयम्॥
मूलम्
प्रवर्तनालक्षणस्य विधेस्त्रेधा विधेयता।यागत्वरूपेणाद्या स्यादिष्टहेतुतयाऽपरा॥
मूलम्
कृतिसाध्यतयाऽन्या स्यादुत्पत्त्यादिविधिस्ततः ।आकाङ्काक्षाक्रमयोगेन त्रयस्ते क्रमयोगिनः ॥
मूलम्
शब्दान्तराभ्याससंख्यानामधेयगुणास्सह ।अन्यत्प्रकरणं चेति प्रमाणं कर्मभेदकम् ॥
मूलम्
कालो देशो निमित्तं च फलं संस्कार्यमेव च ।सहकार्यनुपादेयपञ्चकं प्रक्रियान्तरे ॥