मूलम्
इति प्राचां विभागः स्यादर्वाचामथ चोच्यते ।
मूलम्
धर्मः प्रयोजनयुतो ह्यर्थस्स्याद्वेदबोधितः ।सर्वस्यापि च वेदस्य धर्मे तात्पर्यमिष्यते ॥
मूलम्
विधिर्मन्त्रो नामधेयः निषेधश्च ततः परः ।अर्थवाद इति स्पष्टः वेदराशिर्हि पञ्चधा ॥
मूलम्
अज्ञातार्थज्ञापको यो वेदराशिर्विधिर्मतः ।विध्यर्थवादमन्त्राश्च स्मृत्याचारौ च नाम च ॥
मूलम्
वाक्यशेषश्च सामर्थ्यं धर्ममानमितीरितम् ।तत्र कर्मोत्पत्तिवाक्यं फलवाक्यं गुणाश्रुतिः ॥
मूलम्
फलाय गुणवाक्यं च वाक्यं सगुणकर्मणः ।फलवद्गुणवाक्यं चेत्येवं वाक्यं हि षड्विधम् ॥
मूलम्
आद्यो धात्वर्थमात्रस्य विधिरित्युच्यते बुधैः ।अन्योद्देशेन धात्वर्थविधिस्तु स्यादनन्तरः ॥
मूलम्
तथा धात्वर्थमुद्दिश्य तृतीयोऽन्यविधिर्मतः ।अन्योद्देशेनान्यविधिः चतुर्थ इति गीयते ॥
मूलम्
पञ्चमो गुणसंयुक्तधात्वर्थविधिरुच्यते ।अन्योद्देशेन षष्ठस्स्याद्विशिष्टविधिरेव चेत् ॥
मूलम्
एवं विधिप्रकारस्स्यात् षड्विधोऽर्थविभेदतः।उत्तरोत्तरतः पूर्वं पूर्वं लघ्विति निर्णयः॥
मूलम्
विधिश्चतुर्विध इति विभक्तः प्रायशो बुधैः ॥