मूलम्
मन्त्रब्रह्मणयोर्वेदनामधेयमिति स्मृतम् ।कर्तव्यार्थस्मारकत्वं मन्त्रलक्षणमुच्यते ॥
मूलम्
परप्रत्यायनार्थस्तु मन्त्रा निगदसंहिताः ।विधायकपदव्यूहः ब्राह्मणं परिकीर्त्यते ॥
मूलम्
हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः ।परक्रिया पुराकल्पः व्यवधारणकल्पना ॥
मूलम्
उपमानं दशैते तु विधयो ब्राह्मणस्य हि ॥