मूलम्
अथोपदिष्टे प्रकृतिविचारे विकृतौ पुनः।सामान्यतोऽतिदेशोऽत्र सप्तमे स्थापयिष्यते ॥
मूलम्
विशेषतोऽतिदेशोऽथ प्रावर्तिष्टास्य कर्मणः ।इदं प्रकृतिरित्यादिनिर्णयोऽष्टमलक्षणे ॥
मूलम्
सामसंस्कारमन्त्राणामूहः प्रकृतिगामिनाम् ।विकृतान्वयात्यथाकृत्वा संबन्धो नवमे मतः ॥
मूलम्
प्रत्याम्नान द्वारलोप पर्युदासनिषेधतः ।विकृतौ प्रकृताङ्गानां निवृत्तिर्बाधलक्षणे ॥
मूलम्
तन्त्रं त्वनेकोद्देशेनानुष्ठानं सकृदिष्यते ।अन्यार्थानुष्ठितेनान्यस्योपकारः प्रसञ्जनम् ॥
मूलम्
एकादशद्वादशयोः प्रमेयार्थाविमौ मतौ ।कालसंख्यामन्त्ररूपनिमित्तफलकर्तृभिः ॥
टीका
बालप्रकाशः.[ ]
मूलम्
सकृद्विशेषाग्रहणेऽनुष्ठानं तन्त्रमित्यपि ।सप्तस्वेकविधेनापि विशेषग्रहणे सति ॥
मूलम्
सकृदेव ह्यनुष्ठानं प्रसङ्ग इति वोच्यते । एषोऽतिदेशषट्कार्थः प्रत्यध्यायं निरूपितः ॥