674 उपदेशः

मूलम्

धर्माधीर्मानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः ।सातिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः ॥

मूलम्

अमानस्य निरूप्यत्वायोगात्प्राथम्ययोगिना ।प्रमाणलक्षणेनात्राभावि द्वादशलक्षणे ॥

मूलम्

वेदार्थभेदाभावे स्यादङ्गत्वादिरयुक्तिमान् ।शास्त्रार्थभेदचिन्ताऽथ शब्दभेदादिमानतः ॥

मूलम्

सिद्धे भेदे शेषशेषिभावबोधनलक्षणम् ।श्रुतिलिङ्गादिमानेन प्रवृत्तं शेषलक्षणम् ॥

मूलम्

प्रावर्तिष्टाथ जिज्ञासा शेषाणामेव शेषिभिः ।प्रयोज्यत्वाय तुर्येऽस्मिन् क्रत्वर्थपुरुषार्थयोः ॥

मूलम्

प्रयुक्तेषु पदार्थेषु श्रुत्यर्थादिप्रमाणतः ।अमुक्रान्तः पञ्चमे चाव्यवधानात्मकः क्रमः ॥

मूलम्

सक्रमे चापि शास्त्रार्थे स्थापितेऽथ निरूपितः ।तत्प्रयोक्ता चोपदेशषट्केऽस्मिन् षष्ठलक्षणे ॥