मूलम्
वृत्तिकारमतं चापि भाष्ये बहुलमुज्झितम्।भाष्यकारमतं चापि वार्तिके प्रायशस्तथा॥
टीका
तन्त्र.[731]
मूलम्
दूषितं चापि बहुशाः प्रभाकरगुरोर्मतम्।भट्टपादस्य सिद्धान्ताः रामकेऽपि प्रदूषिताः॥
मूलम्
राणके मातुलसुतापरिणीत्यादिसाधनम्।शास्त्रदीपप्रकाशे तु शङ्करेण प्रदूषितम्॥
मूलम्
सोमेश्वरो ह्यान्यथयत् यद्वार्तिककृतां मतम्।तदुद्दूष्य पुनः सोऽहं प्रकृतिं स्वामथानयम्॥
टीका
न्यासु.[3-3-14]
मूलम्
इतिबालप्रकाशोक्तिश्शाङ्करी परिदृश्यते।तस्माद्युक्तिप्रधानेयं मीमांसेत्यवधार्यताम्॥
टीका
बालप्रकाशः.[ ]
मूलम्
युक्त्यैव ह्यागामस्यापि प्रामाण्यादि प्रसाध्यते।युक्तिशास्त्रं न्यायशास्त्रं मानशास्त्रंमिदं स्थितम्॥
मूलम्
सर्वत्र सूत्रकर्तारस्सर्वज्ञाः ऋषयस्त्विति।न निन्बन्धो वार्तिकादेरनारम्भप्रसङ्गतः॥
मूलम्
व्युत्पाद्यन्ते सहस्रं हि न्यायशास्त्रे यथातथम् ।तन्न्यायानुगृहीतोऽर्थः चोदनालक्षणो मतः ॥
टीका
न्या. म.[589]
मूलम्
इत्थं संक्षेपतस्तर्कपादवादार्थसंग्रहः ।कृतोऽथाध्यायसारांशोद्धारः सम्यक् वितन्यते ॥