672 तर्कपादवादोद्देशः

मूलम्

इत्थं ह्युपोद्घातवादः वृत्तो मुख्यार्थसंग्रहात्।वर्तिष्यते तर्कपादवादोद्देशार्थसंग्रहः॥

मूलम्

नित्ये शब्दार्थसंबन्धे तत्प्रमाण्यव्यवस्थितिः। इति शब्दार्थेसंबन्धवादे नित्यत्वसाधनम्॥

मूलम्

भवेद्बुद्धस्मृतिरपि प्रमाण्यमिति शङ्कया।बाधिता स्मृतिमात्रस्य स्मृतिवादे प्रमाणता॥

मूलम्

सर्वज्ञवादे सार्वज्ञ्यं न कस्यापीति साध्यते।धर्मे बुद्धादियोगीन्द्रप्रत्यक्षत्वनिवृत्तये॥

मूलम्

स्वतः प्रामाण्यवादोऽपि वेदप्रमाण्यसिद्धये।प्रामाण्यं कारणगुणसंवादार्थक्रियादिभिः॥

मूलम्

अनपोदितमेवार्थतथात्वं विषयाश्रितम्। तत्स्वतो गृह्यत इति विषयीकरणं हि तत्॥

मूलम्

अर्थान्यथात्वमितरत् परतस्तद्धि गृह्यते।हेतुदोषादिसंवादबाधकप्रत्ययादितः॥

मूलम्

निरालम्बनवादो यश्शून्यवादस्य चाङ्कुरः।निराकृतो यतो ह्यर्थसद्भावे धर्मचिन्तना॥

मूलम्

पदस्याथ पदार्थस्य वाक्यवाक्यार्थयोरपि।सत्यत्वे धर्मचिन्ताऽतः स्फोटवादो निराकृतः॥

मूलम्

जातेराकृतिवादे तु पदार्थत्वव्यवस्थितौ।अनित्यव्यक्तिसङ्गत्या नाप्रामाण्यप्रसञ्जनम्॥

मूलम्

अपोहरूपा जातिश्चेत्सा भवेत्तुच्छलक्षणा।अतो निराकृतोऽपोहवादो वस्तुत्वसिद्धये॥

मूलम्

प्रपञ्चः परमाणूनां पुञ्जश्चेत्स्यादतीन्द्रियः।सङ्गतिग्रहणासिद्ध्या वनवादो निराकृतः॥

मूलम्

वेदाप्रामाण्यशङ्का स्यात्संकेतस्सङ्गतिर्यदि।तन्निरीश्वरवादोऽतः संबन्धाक्षेपादूषणे॥

मूलम्

अपरोक्षविरुद्धेति शङ्का चित्रादिचोदना।चित्राक्षेपपरीहारे यथावद्धिनिवारिता॥

मूलम्

यज्ञायुध्यादिवत्स्वर्गगमनं त्वसमञ्जसम्।इतिशङ्काव्यवच्छित्त्यै चात्मवादोऽवतारितः॥

मूलम्

स्याद्यदा क्षमिकश्शब्दः न शक्तोऽर्थावधारणे।निर्मूला वेदधीस्तस्मादुदिता वेदनित्यता॥

मूलम्

धर्मसंस्थापनायैव भावनार्थव्यवस्थया।प्रतिभावाक्यवाक्यार्थवादाद्या विनिवारिताः॥

मूलम्

वेदस्यापौरुषेयत्वं स्थापयित्वा परिष्कृता।चोदनालक्षणो धर्म इति सिद्धान्तपद्धतिः॥