671 चोदनासूत्रार्थः

मूलम्

चोदनालक्षणः कार्यं धर्मो वेदार्थ इत्यतः।वेदार्थः कार्यरूपस्यादिति व्याख्या गुरोर्मता॥

मूलम्

प्रमाणं च स्वरूपं च धर्मस्यादौ निरूप्यते।श्रुत्यर्थाभ्यमिति व्याख्या भट्टपादस्य सम्मता ॥

मूलम्

मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणात् । तल्लक्षणप्रमाणाभ्यां वस्तुसिद्धिरितीर्यते ॥

मूलम्

द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते । तेषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता ॥

मूलम्

अत एवातिदेशेऽपि विवादोऽस्त्यर्थकार्ययोः । तस्य तत्त्वं चादिदेश पारायणनिरूपितम् ॥

टीका

प्रक. अतिदेशपारायणं[ ]

मूलम्

अन्यत्र ह्यन्यदीयस्य देशोऽतीदेश उच्यते । अन्यस्मिन्नन्यथाऽभावादित्यप्येष निरूपितः ॥

मूलम्

शास्त्रेऽस्मिन् लक्षणपदं प्रमाणाध्याययोर्मतम् । चोदनालक्षणः शेषलक्षणं चेति दर्शनात् ॥

मूलम्

किमाद्यपेक्षितैः पूर्णस्समर्थः प्रत्ययो विधौ । तेन प्रवर्तकं वाक्यं ग्रन्थेऽस्मिन् चोदनोच्यते ॥

मूलम्

चोदना चोपदेशश्च विध्युद्देशो विधिस्तथा।नियोगो वेद आदेशः शास्त्रं चैकार्थवाचिनः॥

मूलम्

प्रवर्तेऽहमिति ज्ञानं येन शब्देन जन्यते।स चोदनोच्यते यद्वा प्रवर्तनफला मतिः॥

मूलम्

यश्चोदनालक्षणास्स्यात्स धर्म इति योजना।धर्मस्वरूपतात्पर्यवचनव्यक्तिलक्षणा॥

मूलम्

स चोदनालक्षणः स्याद्यो धर्म इति योजना।धर्मप्रमाणतात्पर्यवचनव्यक्तिरुच्यते॥

मूलम्

तादृग्लक्षण एव स्याद्धर्म इत्थंविवक्षया।निराकरममिष्टं स्याद्वेदाप्रामाण्यवादिनाम्॥

मूलम्

धर्मे तु चोदवैव स्याल्लक्षणं त्वितिकल्पनात्।मानान्तरस्य व्यावृत्तिस्तथा बु्द्धागमस्य च ॥

मूलम्

चोदनालक्षणो ह्यर्थो धर्म एवेति योजना।वेदार्थस्य विचारोऽस्मिन् शास्त्रे धर्मं प्रसञ्जयेत्॥