670 स्वाध्यायविध्यर्थः

मूलम्

स्वाध्यायविधिवाक्यार्थः प्रथमं प्रविभज्यते । प्रवृत्तं शास्त्रमेतद्धि तादृग्विधिनिबन्धनम् ॥

मूलम्

तदर्थपूर्वपक्षांशसिद्धान्तांशप्रकाशकम् । कारिकायुगलं ह्येतत्प्राच्यैर्विलिखितं बुधैः ॥

मूलम्

विनाऽपि विधिना दृष्टलाभान्न हि तदर्थता । कल्प्यस्तु विधिसामार्थ्यात् स्वर्गो विश्वजिदादिवत् ॥

टीका

जै. मा.[12]

मूलम्

लभ्यमाने फले दृष्टे नादृष्टफलकल्पना । विधेस्तु नियमार्थत्वान्नानर्थक्यं भविष्यति ॥

मूलम्

तत्रार्थकर्माध्ययनं सम्मतं सक्तुहोमवत् ।भवेदध्यापनविधिप्रयुक्तं च स्वरूपतः ॥

मूलम्

विधेयं चोपनयनमङ्गमध्यापनस्य च ।प्रभाकरस्याभिमतमेतदर्थचतुष्टयम् ॥

मूलम्

गुणकर्मात्वाध्ययनमवघातादिवन्मतम्।नियमोऽत्र विधेयस्स्यात्प्रयुक्तं स्वविधेर्बलात्॥

मूलम्

स्वस्योपनयनं चाङ्गमेवमर्थचतुष्टयम्।कुमारिलस्याभिमतं ज्ञानान्तत्वं समं द्वयोः॥

मूलम्

तत्रौपनिषदानां तु मतं स्याद्भाट्टसम्मतम्।विशेषस्स्यादुभयतो ह्यक्षरग्रहणान्तता॥

मूलम्

अलौकिकं चाहवनीयादिवद्गुरवो विदुः।आचार्यकं भट्टपादा लौकिकं तद्विजानते॥

मूलम्

गुरोराचारमाश्रित्य वर्तन्तेऽन्तेनिवासिनः।यान्यस्माकमिति श्रुत्या तदेतदभिधीयते॥

मूलम्

अध्यापयेदिति विधिप्रयुक्तोऽध्ययनक्रमे।अष्टवर्षादिनिर्देशात् स्पष्टा शूद्रानधिक्रिया॥

मूलम्

नियमस्य विधेयत्वेऽप्यधिकारो नियम्यते।उपनीतो हि विद्यार्थी विद्या हि पुमपेक्षिणी॥

मूलम्

अन्यथाऽनुपपन्नो हि विधिस्स्यादग्निविद्ययोः।कल्पकः क्लृप्तनिर्वाहः कल्पना गौरवाऽऽहता॥