669 मीमांसानिरुक्तिः

मूलम्

धर्मे प्रतीयमाणे तु वेदेन करणात्मना । इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥

मूलम्

मीमांसाशास्त्रसारार्थसंग्रहोऽतो विलिख्यते । दृश्यन्ते विबुधाः प्रायः हंसभ्रमरवृत्तयः ॥

मूलम्

मान्बधेत्यादिसूत्रेण जिज्ञासार्थे विवक्षिते । मानेस्सनि विचारोऽर्थः मीमांसापदबोधितः ॥

मूलम्

स च लाघवतर्काख्यः वेदवाक्यार्थगोचरः । परीक्षाशास्त्रमेवैतन्नानुशासनलक्षणम् ॥

मूलम्

तृतीयसूत्रे स्पष्टार्थपरीष्टिपदयोगतः । जिज्ञासापदतत्त्वार्थः व्याख्यात इति गम्यताम् ॥

मूलम्

न्यायवार्तिकतात्पर्यटीकावाक्यं निशम्यताम् । मीमांसासंज्ञकस्तर्कस्सर्वो वेदसमुद्भवः ॥

टीका

न्या. ता.[42]

मूलम्

सोऽतो वेदः रुमाप्राप्तकाष्ठादिलवणात्मवत् । यः पूजितो विचारोऽसौ मीमांसाशब्दितस्त्विति ॥

मूलम्

कालादनादेर्मीमांसा प्रवृत्ता लोकतः पृथक् । संजग्राह पुनः न्यायान् तादृशान् जैमिनिर्मुनिः ॥

मूलम्

नह्येकस्तूपसंहर्तुमियतो न्यायसंचयान् । समर्थः पुरुषो लोके इत्युक्तं तन्त्रवार्तिके ॥

टीका

तन्त्र.[80]

मूलम्

विचारात्पूर्वमेवात्र प्राप्तमध्ययनं विधेः । अतोऽनधीतवेदस्य विचारश्शास्त्रवारितः ॥