668 वार्तिकादिनिरुक्तिः

मूलम्

उक्तानुक्तद्विरुक्तादिचिन्ता यत्र प्रवर्तते।ग्रन्थं तं वार्तिकं प्राहुर्वार्तिकज्ञा मनीषिणः॥

मूलम्

शास्त्रैकदेशसंबद्धं शास्त्रकार्यान्तरे स्थितम्।आहुः प्रकरणं नाम ग्रन्थभेदं विपश्चितः ॥

मूलम्

एवं च सूत्रभाष्यादिग्रन्थानां लक्षणं पुनः । सर्वत्र विदितं तस्माद्दिङ्मात्रमिह सूचितम् ॥

मूलम्

संसारमोचकाः शाक्यभिक्षुनिर्ग्रन्थकादयः । सम्मता आगमाभासा इति वैदिकनिर्णयः ॥

टीका

श्लोक.[209]