मूलम्
अस्त्यत्र कश्चिद्विशेषः विद्याधीरोदितो यथा।विद्यास्थानेषु धर्म्येषु गणितो न्यायविस्तरः॥
टीका
न्यायपरि.[ ]
मूलम्
स चाक्षपाद एवेति नियन्तुं नैव शक्यते।नच सर्वं सूत्रबद्धं विद्यास्थानमितीष्यते॥
मूलम्
नचैक एव ह्येकस्य विद्यास्थानस्य सूत्रकृत्।नचास्ति राज्ञामाज्ञाऽत्र सूत्रकृदृषिरित्यपि॥
मूलम्
सूत्रकृद्यदि सर्वज्ञः ऋषिस्सकल इष्यते।वार्तिकादेरनारम्भप्रसङ्गो दुर्निवारणः॥
मूलम्
धर्मं व्याख्यातुकामस्य षट्पदार्थोपवर्णनम्।सागरं गन्तुकामस्य हिमवद्गमनोपमम्॥
टीका
प. म.[15 भ.]
मूलम्
कणान्वा भक्षयेत्कामं माहिषाणि दधीनि वा।युक्तियुक्तुं तु गृह्णीमः नतु तद्वाक्यगौरवात्॥
मूलम्
स्मृतिसूत्रप्रवाहोऽयमनादिर्धर्मण्डले।यथालोकं यथावेदं लौकिके वैदिकेऽपि वा॥
मूलम्
यो वक्ता स परिग्राह्यः प्राक्तनोऽद्यतनोऽपिवा।तदर्वाग्भिः तथाऽऽचार्यैः प्रमाणादिविचारणा॥
मूलम्
प्रणिन्ये बहुधा तैस्तैः यथेष्टं मतमास्थितैः।इत्यादिः विस्तरो न्यायपरिशुद्धावुदीक्ष्यताम्॥