मूलम्
आन्वीक्षकी त्रयी वार्ता दण्डनीतिश्च शाश्वती।विद्याश्चतस्त्र एवैता लोकसंस्थितिहेतवः॥
मूलम्
आन्वीक्षकीत्यात्मविद्या धर्माधर्मौ त्रयीस्थितौ।अर्थानर्थौ च वर्तायां दण्डनीतौ नयानयौ॥
मूलम्
इति कामन्दकी प्राहाथात्मविद्या विचार्यते।प्रदीपस्सर्वविद्यानामुपायस्सर्वकर्मणाम्॥
टीका
न्या. भा.[1-1-1]
मूलम्
आश्रयस्सर्वधर्माणां विद्योद्देशे प्रकीर्तिताः।इत्युक्त्य्याऽऽन्वीक्षकी विद्यैवात्मविद्येति तन्मतम्॥
मूलम्
एतमर्थं मनुरपि सप्तमे प्राह तद्यथा।त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम्॥
टीका
मनु.[7-43]
मूलम्
आन्वीक्षकीं चात्मविद्यां वार्तारम्भांश्च लोकतः।सत्यप्येवं मनोर्व्याख्याकाराणां हृदये पुनः॥
मूलम्
आन्वीक्ष्या विभेदेन त्वात्मविद्या प्रतीयते।विस्तरस्यानवसराद्विमृशन्तु बुधास्त्विदम्॥