मूलम्
विभजन्ते त्रिधा केचित् मन्त्रब्रह्मणमादितम्।इतिहासपुराणं च द्वितीयं परिकीर्तितम्॥
मूलम्
धर्मशास्त्रं तृतीयं स्याद्विषयाणां व्यवस्थया।यज्ञो मन्त्रब्रह्मणस्य विषयस्सर्वसम्मतः॥
मूलम्
इतिहासपुराणस्य लोकवृत्तं हि गोचरः।धर्मशास्त्रे पुनर्लोकव्यवहारव्यवस्थितिः॥
मूलम्
अपवर्गपरिक्षायामैकाश्रम्यस्य खण्डने।गौतमीयन्याभाष्ये एवं वात्स्यायनोऽब्रवीत्॥
टीका
न्या. भा.[4-1-62]
मूलम्
धर्मशास्त्रं तु सकलं पूर्वभागोपबृंहणम्।पुराणं चोपनिषदामिति केचेद्विविञ्चते॥
मूलम्
पुराणं धर्मशास्त्रं च सर्वं सर्वोपबृंहणम् । तत्स्मृत्यनवकाशेति बादरायणनिर्णयः ॥
टीका
ब्र. सू.[2-1-1]