664 विद्यास्थानम्

मूलम्

पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः।वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश॥

मूलम्

याज्ञवल्क्यस्मृत्स्वित्थं, तथैव ह्याश्ववेधिके।अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः॥

मूलम्

पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश।इतिच श्रूयते,तत्राप्याधिकं राणके यथा॥

टीका

न्यायसुधा.[183]

मूलम्

आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः।अर्थशास्त्रं तुरीयं स्यात् विद्या ह्याष्टादश स्मृताः॥