663 विभागः

मूलम्

सूत्रं तु त्रिविधं प्रायः पूर्वाचार्यैर्निरूपितम्।उपदेशात्मकं त्वाद्यं व्याख्यानं तदनन्तरम्॥

टीका

श्रुत. अथशब्दार्थः[ ]

मूलम्

उपपादानशास्त्रं स्यात्तृतीयं न्यायपूर्वकम्।अथ शब्दानुशासनमथ योगानुशासनम्॥

मूलम्

इत्याद्यारम्भकं शास्त्रमुपदेशात्मकं मतम्।धर्मं व्याख्यास्याम इति तथाऽथो यज्ञमित्यपि॥

मूलम्

तथाऽयतो दर्शपूर्णमासावित्यादि यत्पुनः।एवमाद्यारम्भशास्त्रं भवेद्व्याख्यानलक्षणम्॥

मूलम्

अथातो धर्मजिज्ञासाऽथातो ब्रह्मेतिपूर्वकम्।जिज्ञासाघटितं शास्त्रं न्यायशास्त्रं प्रचक्षते॥

मूलम्

यथोपदेशं च तथा यथामूलं यथामति।बोद्धव्यमिति भेदेन शास्त्रभेदः प्रवर्तते॥