661 विचारस्यावश्यकता

मूलम्

ग्रन्थमभ्यस्य मेधावी ज्ञानावज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥

मूलम्

इत्येतत्कोशसंत्यागाभिप्रायं नार्थगोचरम् । निष्पन्नयोगपुरुषविषयं वा विदुर्बुधाः ॥

मूलम्

शास्त्रज्ञानं बहुक्लेशं बुद्धेश्चलनकारणम् । उपदेशाद्धरिं बुध्वा विरमेत्सर्वकर्मसु ॥

मूलम्

इत्येतत्तीव्रसंयोगवतामेवाविपश्चिताम् । अलसानामास्तिकानां विस्रम्भायेति निर्णयः ॥