मूलम्
पाञ्चरात्रागमस्त्वेकायनवेदान्तमूलकः । श्रुतिमूलमिदं तन्त्रं प्रमाणं कल्पसूत्रवत् ॥
टीका
आगमप्रामाण्यम्.[ ]
मूलम्
वेदत्वं नात्र संदिग्धं यं वाकेष्विति च स्मृतेः । ऋग्वेदपाठे पठितं व्रतमेतत्सुदुश्चरम् ॥
मूलम्
इति सेश्वरमीमांसासंप्रदायस्य संग्रहः । असौ नातीव विच्छिन्नोऽनूद्यते च परैरपि ॥
मूलम्
इत्थं हि शतदूषण्यां तृतीये भङ्ग ईर्यते । सोऽनुवादो दैवविदः इति माण्डूक्यकारिका ॥
मूलम्
भवेद्वाऽप्यथवाऽन्यद्वा विपश्चिद्भिः विमृश्यताम् । विचारस्यावश्यकत्वं न्यायशुद्धौ समर्थितम् ॥
टीका
न्यायपरि.[ ]