659 विरोधविचारः

मूलम्

श्रुतिस्मृतिविरोधे तु विकल्पं केचिदूचिरे।भ्रमसंभवतः श्रुत्या स्मृतिबाधं परे विधुः॥

मूलम्

विरोधे तत्त्वविषये बाध एव विवक्षितः ।विकल्पासंभवाद्वस्तुष्विति विद्वद्विनिश्चितः ॥

मूलम्

स्मृतिद्वयविरोधे तु व्यवस्था स्यात्परिग्रहात् ।मन्वादीनां स्मृतिष्वेव केचिछलोका अपस्मृतिः ॥

मूलम्

इति शाबरसिद्धान्तः कुमारिलमतं विदम्।बुद्धागमः पाञ्चरात्रागमाद्यास्स्युरपरस्मृतिः॥

मूलम्

इति विज्ञायते तत्र प्रत्युक्तिरयमुचयते।नच क्वचित् स्मृतेर्बाधे सर्वानाश्वाससंभवः॥

मूलम्

बाधकादर्शनाद्धेतुदोषक्लृप्तेरयोगतः।परिग्रहविशेषेण श्रुतिमूलत्वकल्पनात्॥

मूलम्

विस्त्रम्भहेतुस्संवादः क्वचिद्बाह्यागमेऽस्त्यपि।भूयश्श्रुतिविरोधेन वैदिकैरपरिग्रहः ॥