मूलम्
श्रुतिमूलतयैवैताः स्मृतयो यान्ति मानताम् । श्रुत्यैव निर्णये किंवा स्मृतिभिश्चेति चेन्न तत् ॥
टीका
स्मृतिचन्द्रिका.[ ]
मूलम्
दुर्बोधा वैदिकाश्शब्दाः प्रकीर्णत्वाच्च ये खिलाः । तज्ज्ञैस्त एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः ॥
मूलम्
इति प्राह मरीचाख्यः देवलस्य वचः पुनः । सत्यप्यस्मिन् धर्मशास्त्रे गृह्यापेक्षां प्रदर्शयेत् ॥
मूलम्
मन्वादयः प्रयोक्तारो धर्मशास्त्रस्य कीर्तिताः । तत्प्रयुक्तप्रयोक्तारः गृह्यकारस्तु मन्त्रतः ॥
मूलम्
वेदा अनन्तास्संकीर्णाः विकीर्णाश्च क्वचित्तथा । उत्सन्नाश्च कदाचित्स्युः मन्वाद्याः कृत्स्नवेदिनः ॥