657 विधिः

मूलम्

हितानुशासनं वाक्यं विधिरत्र विवक्षितः।लिङ्वाच्योऽपूर्वे इत्यत्र ख्यातो व्युत्पत्यसंभवः॥

मूलम्

विमर्शात्सिद्धिरितिचेत् विमर्शः स्मृतिरेव हि।अस्तु वा कार्य एवादौ व्युत्पत्तिः व्यवहारतः॥

मूलम्

अन्वयव्यतिरेकाभ्यां शब्दाशक्तिर्विविच्यचे।प्रयुज्यन्ते सिद्धपराः वक्तृभिर्हि कथा तथा॥

मूलम्

प्रतिष्ठा देशभेदश्च छागादिर्वा घृताञ्जनम्।यातनासाधनत्वं च गृह्यते विध्यपेक्षितम्॥

मूलम्

प्रतीता देवताप्रीतिः अपूर्वमुपकल्प्यताम्।लिङो वाच्यतया द्वारं स्वरूपद्वा किमन्यतः॥

मूलम्

विग्रहो हविरादानं युगपत्कर्मसन्निधिः।प्रीतिः फलप्रदानं च देवतानां न विद्यते॥

मूलम्

इति वादो भवेदर्धचार्वाकमतिमूलकः।अवचिद्देवतापक्षे शाब्दमार्गक्रमस्त्वयम्॥

मूलम्

किमर्थं किं केन कथं वेति स्याद्धि चतुर्विधा।आकाङ्क्षा तत्रचाद्यायाः पूर्तिस्स्वर्गादिना मता॥

टीका

स. सि.[594]

मूलम्

देवतां प्रींणयेदित्येतया शाम्यत्यनन्तरा।ज्योतिष्टोमेनेति नामधेयात्केनेति शाम्यति॥

मूलम्

कथमित्यस्य शान्तिस्तु समानैवोभयोरपि । विशेषतश्च पुरुषः चोदनाशब्दसूचितः ॥

मूलम्

श्रुतिस्स्मृतिर्ममैवाज्ञा यस्तामुल्लङ्घ्य वर्तते । आज्ञाछेदी मम द्रोहीत्येवं भगवतोदितम् ॥

मूलम्

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥

मूलम्

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥