मूलम्
वेदतः पौरुषेयत्वशङ्का वेदेन शाम्यति । हेत्वन्तरसमुद्भूता हेत्वन्तरनिवारिता ॥
मूलम्
युगान्तेऽन्तार्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ॥
मूलम्
धर्ममूलं वेदमाहुः ग्रन्थराशिमकृत्रिमम् । तद्विदां स्मृतिशीले च साध्वाचारं मनःप्रियम् ॥
मूलम्
यावत्प्रभावाः श्रूयन्ते ऋष्याद्या वेदराशिषु । तादृशा एव सृज्यन्ते वेदान् दृष्ट्वा स्वयंभुवा ॥
मूलम्
अनधीत्यैव वेदानामाविर्भावयितृत्वतः । तपसा प्राप्य संस्कारात्तत्सूक्तत्वादिसंभवः ॥
मूलम्
तपःप्रभावान्मन्त्राणां ऋषिदर्शनसंस्कृतेः । शक्तिराधीयते काचित् यथाऽस्माकमधीतितः ॥
मूलम्
अर्थावबोधकत्वं तु शब्दशक्त्याऽन्यशब्दवत् । ऋषिदर्शनतोऽधीतेरपि शक्त्यन्तरोद्भवः ॥
मूलम्
अपूर्वकार्यनिष्पत्तावुपकुर्यादिदं ततः । काठकादिसमाख्याया निमित्तं चेदमेव वा ॥
मूलम्
प्रकृष्टं वा प्रवचनं तत्सिद्धा वेदनित्यता । मन्त्रब्रह्मणयोर्वेदनामधेयं च विश्रुतम् ॥
टीका
आप-परिभाषा.[ ]