मूलम्
यद्धेतुदर्शनं तन्त्रवार्तिके विशदीकृतम्।तदेव चाप्युदयनः व्याचख्यौ कुमुमाञ्जलौ॥
टीका
न्या. कु.[1 स्त.]
मूलम्
सम्यङ्निरूपिता न्यायपरिशुद्धौ पदव्यसौ।तत्संक्षेपोऽप्यत्र किंचित्क्रियते सुधियां कृते॥
मूलम्
नैव शब्दो स्वतो दोषाः प्रामाण्यपरिपन्थिनः।सन्ति किन्तु स्वतस्तस्य प्रामाण्यमिति हि स्थितिः॥
मूलम्
वक्तुराशयदोषेण केषुचित्तदपोद्यते।अङ्गुल्यग्रे हि मातङ्गयूथमित्येवमादिषु॥
मूलम्
नित्ये हेतुगुणापेक्षा वेदे नास्तीशबुद्धिवत्।हेत्वाभावान्न दोषश्चेद्वक्त्रभावादिह्यापि नः॥
मूलम्
अकारणं यथा ज्ञानं प्रामाम्यमधिगच्छति।अकारणं तथा वाक्यं स्वतः प्रमितिकारणम्॥
मूलम्
यदि हेतुगुणाभावादप्रमाण्यं प्रयज्यते।तदीश्वरप्रमायामप्यनिवार्यमिदं भवेत्॥
मूलम्
अज्ञातकर्तृको वेदो यथा गन्धर्वभाषितम्।अप्रमाण्यपदं तद्वत् शङ्का स्यादिति चेन्न तत्॥
मूलम्
महत्परिग्रहादेवानाप्तकर्तृकता स्वयम्।शङ्काकलङ्कसंबन्धं नार्हतीति विदां मतम्॥
मूलम्
बाह्यागमेऽपि बहुलमहाजनपरिग्रहः।परिग्रहविशेषोऽतो महत्स्विह विवक्षितः ॥
मूलम्
विशेषस्तु मतो हेतुदर्शनादर्शनादितः । अनन्यगतिकैः स्वैररसिकैः जीविकार्थिभिः ॥
मूलम्
कुहकैर्वञ्चितैश्चात्र प्रसिद्धो हि परिग्रहः । प्रतिमाजल्पनं शाखाभङ्गः पाषाणपाटनम् ॥
मूलम्
इत्येताभिः कुत्सिताभिस्सिद्धिभिः वञ्चिताः परे । वैपरित्यं सुप्रसिद्धमिह वैदिकदर्शने ॥
मूलम्
वञ्चनापटुभिः वेदविद्भिरेते प्रतारिताः । इति चेत्, किं वञ्चयन्ति स्वात्मानमपि केवलम् ॥
मूलम्
यैश्च सर्वे पटुप्रज्ञाः लोका जाताः प्रतारिताः । प्रतारका इति कथं उन्नीतास्तेऽपि च त्वया ॥
मूलम्
लोकोत्तरपटुप्रज्ञो भवानेव महीतले । सर्वप्रतारकैरेतैरपि नैव प्रतार्यसे ॥
मूलम्
अनुष्ठानप्रवाहोऽयं स्यादेवान्धपरंपरा । इत्यसत्, तत्प्रमाणादेः बाधादीनामदर्शनात् ॥
मूलम्
धर्मबुद्ध्यैव निरुपाधिक एष परिग्रहः । इति त्वदुक्त्यैव सिद्धेः किमस्माभिरिहोच्यताम् ॥
मूलम्
अनादिनिधने चास्मिन् सम्प्रदाये चलत्यथ । प्रक्रियान्तरमाश्रित्य प्रतिच्छन्दप्रवर्तनात् ॥
मूलम्
प्रतारका भवन्तीति श्रुतिस्मृतिविनिश्चितम् । युक्तिमच्चैतदित्यत्र संक्षिप्ता दिक्प्रदर्शिता ॥