653 बुद्धसूत्रनिरासः

मूलम्

स्थितैषां धर्मतेत्येतत् अर्थशून्यमतो वचः॥

टीका

स. सं.[2 द]

मूलम्

एषेत्यपि न निर्देष्टुं शक्या क्षणविनाशिनी।किमुत स्थित्या साकं एषेत्यस्यैकवाक्यता॥

मूलम्

तस्मान्नागमनित्यत्वं शब्दानित्यत्ववादिनम्।नच पुंवचनं सर्वं सत्यत्वेनावगम्यते॥

मूलम्

वागिह श्रूयते यस्मात्प्रायादनृतवादिनी।तस्मादपौरुषेयैव नित्या भवति नेतरा॥