652 आगमनित्यतापक्षः

मूलम्

वेदाद्बुद्धागमस्यायं विशेषस्तन्त्रवार्तिके।निरूपितो विस्तरशः तत्संक्षेपोऽवधार्यताम्॥

मूलम्

यदेव भवतां गोत्रं तदस्माकमपीतिवत्।आहुः स्वागामनित्यत्वं परवाक्यानुकारिणः॥

टीका

तन्त्र.[170]

मूलम्

महाजनगृहीतत्वं पित्राद्यनुगमादि च ।तेऽपि द्वीपान्तराक्षेपं वदन्येव स्वदर्शने॥

मूलम्

संप्रदायविरुद्धं तद्वचनं ह्यावधार्यते।बुद्धोपदिष्टो धर्मोऽयं अनित्यं सर्वसंस्कृतम्॥

मूलम्

क्षणिकास्सर्वसंस्काराः अस्थिराणां कुतः क्रियाः।बुद्धिबोध्यं त्रयागन्यत् संस्कृतं क्षणिकं च तत्॥

मूलम्

नच शब्दार्थसंबन्धकूटस्थत्वमनिच्छताम्।नित्यता व्यवहारस्य निराधाराऽवकल्पते॥

मूलम्

शब्दादिषु विनश्यत्सु व्वहारः क्व वर्तताम्।