मूलम्
स्वतस्सर्वप्रमाणानां प्रामाण्यमिति गम्यताम्।नहि स्वतोऽसती शक्तिः कर्तृमन्येन शक्यते॥
टीका
श्लोक.[59]
मूलम्
तस्माद्बोधात्मकत्वेन बुद्धेः प्राप्ता प्रमाणता।अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते॥
मूलम्
अप्रमाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः।वस्तुत्वाद्विविघास्यात्र संभवो दुष्टकारणात्॥
मूलम्
पौरुषेये तु वचने प्रमाणान्तरमूलता।तदभावे हि तद्दुष्यते इतरन्न कदाचन॥
मूलम्
कर्तृमत्त्वे तु वेदस्य सम्यङ्मित्यात्ववादिभिः।कर्ता गुणाश्च दोषाश्च महाजनपरिग्रहः॥
मूलम्
एवमादि विना युक्त्या कलप्यं, मीमांसकैः पुनः।इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते॥
मूलम्
तेन नाप्तोपदेशत्वं न स्यादागनलक्षणम्।नाप्तस्य संभवो वेदे, लोके नास्मात्प्रमामता॥
मूलम्
स्वतः सर्व प्रमाणत्वं नचेत्स्याद्दोषदर्शनम्।तेनैव सर्वाक्षेपाणां विवारममिति स्थितम्॥