मूलम्
नित्यत्वादेरसिद्धत्वात्, अभ्युपेत्योच्यतेऽथ वा । सुतरामप्रमाणत्वं वक्तृप्रामाण्यवर्जनात् ॥
मूलम्
परिग्रहाच्च महतां प्रामाण्यमिह दुर्वचम्।ज्ञापकश्चायमप्यर्थः कारके संगतिः कुतः॥
मूलम्
कोऽयं महाजनो नाम किमाचारः किमास्पदः।किंसंख्यः किंसमाचार इति व्याख्यातुमर्हसि॥
मूलम्
महाजनगृहीतत्वं पित्राद्यनुगमादी च ।बौद्धाः द्वीपान्तरापेक्षं वदन्त्येव स्वदर्शने॥
टीका
तन्त्र.[115]
मूलम्
प्रामाणान्तरादृष्टं हि शब्दोऽन्यं प्रापयेत्सदा।स्मृतिवाच्च स्वयं तस्य प्रामाण्यं नोपपद्यते॥
मूलम्
नूनं तत्रानुभूतोऽसावित्याप्तोक्तिनिबन्धना।बुद्धिस्साक्षाददृष्टोऽपि युक्तार्थे पुरुषोक्तितः॥
मूलम्
नात्मीयादन्यदीयाद्वा प्रत्यक्षादेर्विना क्वचित्।वचसस्सत्यता दृष्टा तथा स्याच्चोदनास्वपिष॥
मूलम्
तेन सत्यापि विज्ञाने प्रतिभादेर्यथैव हि।स्वातन्त्र्यान्न प्रामाणत्वं तथा वेदेऽपि दृश्यताम्॥
मूलम्
स्वर्गयागादिसंबन्धविषया चोना मृषा।प्रत्यक्षाद्यगतार्थत्वात् ईदृग्बुद्धादिवाक्यत्वात्॥
मूलम्
यद्वाऽऽप्तेनाप्रणीतत्वात् बालोन्मत्तादिवा्क्यवत्।व्योमादिवच्च नित्यत्वात्प्रमाण्यस्य निराकृतिः॥
मूलम्
यदिवा पुरुषाधीनप्रामाण्यास्सर्वचोदनाः।स्वतो वा न प्रमाणं स्युः वाक्यत्वात्पुरुषोक्तिवत्॥
मूलम्
प्रामाण्यं वा नरापेक्षं सर्वशब्देषु गम्यताम्।शब्दैस्संबध्यमानत्वात् अप्रमाण्यं यथैव हि॥
मूलम्
न स्याद्वक्तृगुणानां चेत् वचः प्रामाण्यहेतुता।तद्दोषैरप्रमाणत्वं किमित्यस्य भविष्यति॥
मूलम्
ततश्च पुरुषाभावात्सति वा शुद्ध्यसंभवात्।निर्मूलत्वात्प्रमाणत्वं चोदनायं न युज्यते॥
मूलम्
एवंस्थिते तु वेदस्य सतिवाऽसतिवा नरे।प्रामाण्यं दुर्लभमिति शङ्कायामिदमुच्यते॥