मूलम्
अथान्येषां वैदिकानामभिप्रायस्य संग्रहः। अयमेषः तत्त्वविद्भिः विनिर्णीतः प्रकाश्यते॥
मूलम्
वेदो हि नित्योऽभिप्रायः कश्चित्स्यात्पारमेश्वरः॥ श्रृतिस्स्मृतिर्ममैवाज्ञेत्यादि मानं परश्शतम्॥
मूलम्
तदभिव्यञ्जके वाक्ये वेदशब्दः प्रयुज्यते। प्रयुज्यते चाप्यर्थे हि वेदविच्छास्त्रविद्यथा॥
मूलम्
यज्ञेन वाच इतिच बह्वृचैः पठ्यते श्रुतिः। हृदयेनाभ्यनुज्ञात इत्येषा मानवी स्मृतिः॥
टीका
मनु.[2-1]
मूलम्
हृदयं वेद इति च भाष्यं मेधातिथेरिह । महतां हृदयं वेद इत्यप्याह कुमारिलः ॥
टीका
तन्त्र.[132]
मूलम्
महत्परिग्रहो ह्येष विशेषो ह्यागमान्तरात् । एकस्य प्रतिभानं तु कृतकान्न विशिष्यते ॥
मूलम्
अपि चोदयनाचार्यैः यन्न्य्यायकुमाञ्जलौ । उत्पत्तितो वाऽभिव्यक्तितो वाऽभिप्रायतोऽपि वा ॥
मूलम्
अनवच्छिन्नवर्णानां नैरर्थक्यमितीरितम् । तत्र नैयायिकमतमुत्पत्तिपदसूचितम् ॥
मूलम्
मीमांसकमतं चाथाभिव्यक्तिरिति कथ्यते । अस्वातन्त्र्यं हि रचनाविशेषे हि तदाशयः ॥
मूलम्
अथाभिप्राय इति तदौपनिषदं मतम् । सर्वार्थसिद्धौ वेदान्ताचार्योक्तिरवबुध्यताम् ॥
टीका
स. सि.[4-113]
मूलम्
एतदेव हि वेदस्यापौरुषेयत्वनित्यते । प्राक्प्रागुच्चारणाधीनोच्चार्यमाणत्वमेव तत् ॥
मूलम्
नह्येकरूपवाकक्यस्य प्रवाहानादितां विना । प्रतिपद्यामहे वेदवाक्येष्वन्यामनादिताम् ॥
मूलम्
प्रतिकल्पं चेकरूपाभिसन्धिः परमेश्वरः । वाक्यं वदत्येकरूपमिति वेदस्य नित्यता ॥
मूलम्
नैतावताऽऽज्ञारूपत्वं वेदवाक्ये विहन्यते । द्योतयत्येव हि विमोरभिप्रायं सनातनम् ॥
मूलम्
अन्यता करणे शक्तोऽप्येतं नान्यथयत्यसौ । धाता यथा पूर्वमिति स्वयमेवोपदिश्यते ॥
मूलम्
अव्यवस्थितशङ्काऽपि दूरेणोत्सार्यते ततः । सर्वेभ्यो वत्सलतरं शास्त्रमित्यपि कीर्त्यते ॥
मूलम्
वर्णं पदं वा वाक्यं वा स्फोटं तदतिरेकि वा । तत्त्वान्तरं वेति बुधाः जानते ये तु वैदिकाः ॥
मूलम्
प्रमाणानि पुनर्यानि ज्ञायन्ते तत्र भूरिशः । सर्वेषामत्र तात्पर्यमिति सामान्यनिर्णयः ॥