648 वेदपदार्थः

मूलम्

कूटस्थनित्यवर्णानां राशिर्वेदोऽभिधीयते । क्रमः प्रवाहानित्यस्स्यादिति मीमांसका विदुः ॥

मूलम्

क्रमावच्छिन्नवर्णौघस्सदा सर्वज्ञबुद्धिगः । कूटस्थनित्यं वेदाख्यं तत्त्वं श्रीमध्वसम्मतम् ॥

मूलम्

सृष्टिकाले च वर्णानामुत्पत्तिं प्रलये पुनः। विनाशं केचिदिच्छन्ति सैषा कल्पान्तनित्यता ॥

मूलम्

वर्णस्याशुविनाशेऽपि क्रमे स्वातन्त्रय्यभङ्गतः। वेदनित्यत्ववादस्यादिति साधारणी सृतिः ॥