मूलम्
चतुर्विधस्तथा भेदः पूर्वस्त्वात्यन्तिको मतः। औपाधिको द्वितीयस्स्यात् तृतीयः पारिणामिकः॥
मूलम्
वैवर्तिकश्चतुर्थस्स्यात् अभेदोऽपि चतुर्विधः। अखण्डत्वं च तादात्म्यं वैशिष्ट्यं चौपचारिकम्॥
मूलम्
अतश्च बाधाद्द्रव्यैक्यात् आत्मत्वादुपचारतः। तच्चतुर्धा जग्रद्ब्रह्मसामानाधिकरण्यगीः॥
मूलम्
स्वभावाच्च विवर्ताच्च संकल्पात्परिणामतः। चतुर्विधं कारणत्वं वादिभिस्तैर्विकल्प्यते॥
मूलम्
तथा कू़टस्थशब्दार्थः चतुर्धा परिदृश्यते। कूटस्थो निर्विकारस्स्यात्तथा साधारणोऽपिच
मूलम्
मायाऽध्यक्षोऽथवा ज्ञेयः राशिवत्स्थित एव वा । योगवृत्त्यैव कूटस्थपदमेवं विकल्प्यते ॥