646 सामानाधिकरण्यम्

मूलम्

नाम्नां द्विधैव संबन्धः सर्ववाक्येष्ववस्थितः । सामानाधिकरण्येन षष्ठ्या वा प्रतिपाद्यते ॥

टीका

तन्त्र.[535]

मूलम्

सामानाधिकरण्यं च धर्मः शब्दगतः स्थितः। तस्य तात्पर्यविषयोऽप्यर्थस्ताच्छब्द्यमश्नुते॥

मूलम्

सामानाधिकरण्यं तत्तादात्म्यमिति कीर्त्यते। विरोधैकान्तसिद्धान्ते तत्स्वरूपैक्यलक्षणम्॥

मूलम्

तद्धि तावद्धर्मधर्मिजातिव्यक्त्यादिषूच्यते। धर्मधर्मिविभेदे तु सर्वथा नैक्यसंभवः॥

मूलम्

धर्मभेदे तदायत्तो धर्मिभेदः व्यवस्थितः। स सिद्धान्तस्सौगतानामिति धीमद्विनिश्चितः॥

मूलम्

तादात्म्यं तु विदुः केचित् ये भेदाभेदलक्षणम्। जातिव्यक्त्यादिषु तथा तादात्म्यमुपयन्ति ते॥

मूलम्

अनेकान्तविदस्ते स्युः भाट्टास्तन्मार्गयायिनः। भर्तृप्रपञ्चादयश्च तन्मार्गस्य प्रवर्तकाः॥

मूलम्

धर्मधर्म्यादिषु भिदावादिभिस्तार्किकैः मतः। धर्म्यैक्ये धर्मयोर्भेदः धर्मैक्योऽपि च धर्मिणोः॥

मूलम्

विशिष्टयोरप्यभेदः तथा शुद्धविशिष्टयोः। तत्सिद्धान्ते तु तादात्म्यं वदितुं बहुधोचितम्॥

मूलम्

सामानाधिकरण्येन चैवं तादात्म्यलक्षणम्। ऐक्यं त्रिधा विशुद्धैक्यं विशिष्टैक्यं भिदाऽभिधा॥

मूलम्

अखण्डरससस्त्वैक्यं चतुर्धाचोपपादितम्। सत्यादिशोधकवचस्स्वतद्व्यावृत्तिमार्गतः॥

मूलम्

तत्त्वमस्यादिवाक्येषु चान्वयेनोपलक्षणात्। सर्वं खल्विदमित्यादौ मिथ्यार्थोरोपणेन तु॥

मूलम्

ज्योतींषि विष्णुरित्यादौ बाधया चोपपादितम्। ययाकयाऽपि विधया निर्विशेषं सुरक्षितम्॥

मूलम्

ऐक्याध्यासापवादाश्च विशेषणविशेष्यता। सामानाधिकरण्यं च चतुर्धेत्यप्यवादिषुः॥

मूलम्

विप्रो ब्रह्मणा इत्यादौ विशुद्धैक्यं व्यवस्थितम्। इदं रजतमित्यादौ अध्यासस्स्याद्विवक्षितः॥

मूलम्

देह आत्मेत्यादिदेशे त्वपवादः प्रकीर्त्यते। नीलमुत्पलमित्यादौ स्याद्विशेषणतेति च॥

मूलम्

सविशेषब्रह्मविदः तत्त्वत्रयविदश्च ये। सर्वत्र तेषां तादात्म्यं विशिष्टाद्वैतलक्षणम्॥

मूलम्

अविरोधान्तरङ्गत्वजातिभोगाद्यभेदतः। एकोक्तिरपृथक्सिद्धेः देशकालदशादिभिः॥

मूलम्

परिणामविदो ये च भेदाभेदविदोऽपि च। अनेकान्तविदां तेषां तत् भेदाभेदलक्षणम्॥

मूलम्

संप्रदायप्रभेदेन विवक्षाभेदतोऽपिवा। वेदान्तिनां भिदा तत्र विश्रुतेत्युपरम्यते॥